बुद्धेः श्रृतिविप्रतिपन्नत्वं विशदयति -
अनेकेति ।
नानाश्रुतिप्रतिपन्नत्वमेव सङ्क्षिपति-
विक्षिप्तेति ।
उक्तं हेतुद्वयमनुरुध्य वैराग्यपरिपाकावस्था कालशब्दार्थः । नैश्चल्यम् - विक्षेपराहित्यम् , अचलत्वम् - विकल्पशून्यत्वम् , विक्षेपः - विपर्ययः, विकल्पः - संशयः - इति विवेकः । विवेकद्वारा जाता प्रज्ञा प्रागुक्ता बुद्धिः । समाधिः - तत्रैव निष्ठा ॥ ५३ ॥