श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव
स्थितधीः किं पृभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥
स्थिता प्रतिष्ठिताअहमस्मि परं ब्रह्मइति प्रज्ञा यस्य सः स्थितप्रज्ञः तस्य स्थितप्रज्ञस्य का भाषा किं भाषणं वचनं कथमसौ परैर्भाष्यते समाधिस्थस्य समाधौ स्थितस्य हे केशवस्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेतकिम् आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथमित्यर्थःस्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छ्यते ॥ ५४ ॥

ननु - तस्य भाषा तत्कार्यानुरोधिनी भविष्यति, किमित्यसौ विजिज्ञास्यते ? तत्राह -

कथमिति ।

ज्ञाननिष्ठस्य लक्षणविवक्षया प्रश्नमवतार्य तन्निष्ठासाधनबुभुत्सया विशिनष्ठि -

समाधिस्थस्येति ।

तस्यैवार्थक्रियां पृच्छति -

स्थितधीरिति

॥ ५४ ॥