संन्यासिनो ज्ञाननिष्ठातत्प्राप्तिवचनं प्रश्नबीजम् । पृच्छतोऽर्जुनस्याभिप्रायमाह -
लब्धेति ।
लब्धा समाधौ - आत्मनि, समाधानेन वा प्रज्ञा परमार्थदर्शनलक्षणा येन तस्येति यावत् ।