ज्वरशिरोरोगादिकृतानि दुःखानि आध्यात्मिकानि । आदिशब्देन आधिभौतिकानि व्याघ्रसर्पादिप्रयुक्तानि, आधिदैविकानि च अतिवातवर्षादिनिमित्तानि दुःखानि गृह्यन्ते । तेषूपलब्धेष्वपि नोद्विग्नं मनो यस्य स तथेति सम्बन्धः । नोद्विग्नमित्येतद्व्याचष्टे -
न प्रक्षुभितमिति ।
दुःखानामुक्तानां प्राप्तौ परिहाराक्षमस्य तदनुभवपरिभावितं दुःखमुद्वेगः । तेन सहितं मनो यस्य न भवति, स तथेत्याह -
दुःखप्राप्ताविति ।
मनो यस्य नोद्विग्नमिति पूर्वेण सम्बन्धः । सुखान्यपि दुःखवत् त्रिविधानीति मत्वा तथेत्युक्तम् । तेषु प्राप्तेषु सत्सु तेभ्यो विगता स्पृहा तृष्णा यस्य सः विगतस्पृहः - इति योजना ।
अज्ञस्य हि प्राप्तानि सुखान्यनु विवर्धते तृष्णा । विदुषस्तु नैवम् , इत्यत्र वैधर्म्यदृष्टान्तमाह -
नाग्निरिवेति ।
यथा हि दाह्यस्य इन्धनादेः अभ्याधाने वह्निर्विवर्धते, तथा अज्ञस्य सुखानि उपनतानि अनुविवर्घमानापि तृष्णा विदुषो न तान्यनु विवर्धते । नहि वह्निरदाह्यमुपगतमपि दग्धुं विवृद्धिमधिगच्छति । तेन जिज्ञासुना सुखदुःखयोस्तृष्णोद्वेगौ न कर्तव्यावित्यर्थः ।
रागादयश्च तेन कर्तव्या न भवन्तीत्याह -
वीतेति ।
अनुभूताभिनिवेशे विषयेषु रञ्जनात्मकस्तृष्णाभेदो रागः । परेणापकृतस्य गात्रनेत्रादिविकारकारणं भयम् । क्रोधस्तु परवशीकृत्य आत्मानं स्वपरापकारप्रवृत्तिहेतुर्बुद्धिवृत्तिविशेषः ।
मनुते इति मुनिः, आत्मवित् इत्यङ्गीकृत्याह -
संन्यासीति ।
सुखादिविषयतृष्णादेः, रागादेश्च अभावावस्था तदेत्युच्यते ॥ ५६ ॥