श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्
नाभिनन्दति द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥
यः मुनिः सर्वत्र देहजीवितादिष्वपि अनभिस्नेहः अभिस्नेहवर्जितः तत्तत् प्राप्य शुभाशुभं तत्तत् शुभं अशुभं वा लब्ध्वा अभिनन्दति द्वेष्टि शुभं प्राप्य तुष्यति हृष्यति, अशुभं प्राप्य द्वेष्टि इत्यर्थःतस्य एवं हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति ॥ ५७ ॥

विवेकवतो विदुषो विवेकजन्या प्रज्ञा कथं प्रतिष्ठां प्रतिपद्यताम् ? इत्याशङ्क्याह -

यः सर्वत्रेति ।

ननु - देहजीवनादौ स्पृहा, शुभाशुभप्राप्तौ हर्षविषादौ विदुषो विविदिषोश्च अवर्जनीयौ ? इति प्रज्ञास्थैर्यासिद्धिः, तत्राह -

यो मुनिरिति ।

तत्तदिति शोभनवत्त्वेन अशोभनवत्त्वेन वा प्रसिद्धत्वं प्रतिनिर्दिश्यते । तदेव विभजते -

शुभमिति ।

विषयेषु अभिषङ्गाभावः शुभादिप्राप्तौ हर्षाद्यभावश्च प्रज्ञास्थैर्ये कारणमित्याह -

तस्येति

॥ ५७ ॥