श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विषया विनिवर्तन्ते निराहारस्य देहिनः
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥
यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि इन्द्रियाणि निराहारस्य अनाह्रियमाणविषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः रसवर्जं रसो रागो विषयेषु यः तं वर्जयित्वा । रसशब्दो रागे प्रसिद्धः, स्वरसेन प्रवृत्तः रसिकः रसज्ञः, इत्यादिदर्शनात् । सोऽपि रसो रञ्जनारूपः सूक्ष्मः अस्य यतेः परं परमार्थतत्त्वं ब्रह्म दृष्ट्वा उपलभ्य ‘अहमेव तत्’ इति वर्तमानस्य निवर्तते निर्बीजं विषयविज्ञानं सम्पद्यते इत्यर्थः । न असति सम्यग्दर्शने रसस्य उच्छेदः । तस्मात् सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यमित्यभिप्रायः ॥ ५९ ॥

विषयोपभोगपराङ्मुखस्य कुतो विषयपरावृत्तिः ? तत्परावृत्तिश्च अप्रस्तुता, इत्याशङ्क्याह -

यद्यपीति ।

निराहारस्येत्यस्य व्याख्याानम् - अनाह्रियमाणविषयस्येति । यो हि विषयप्रवणो न भवति, तस्य आत्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनस्यापि इन्द्रियाणि विषयेभ्यः सकाशाद् यद्यपि संह्रियन्ते, तथापि रागोऽवशिष्यते । स च तत्त्वज्ञानादुच्छिद्यत इत्यर्थः ।

रसशब्दस्य माधुर्यादिषङ्विधरसविषत्वं निषेधति-

रसशब्द इति ।

वृद्धप्रयोगमन्तरेण कथं प्रसिद्धिः ? इत्याशङ्क्याह -

स्वरसेनेति ।

स्वेच्छयेति यावत् । रसिकः - स्वेच्छावशवर्ती । रसज्ञः - विवक्षितापेक्षितज्ञातेत्यर्थः ।

कथं तर्हि तस्य निवृत्तिः ? तत्राह-

सोऽपीति ।

दृष्टिमेवोपलब्धिपर्यायां स्पष्टयति -

अहमेवेति ।

रागापगमे सिद्धमर्थमाह -

निर्बीजमिति ।

ननु - सम्यग्ज्ञानमन्तरेण रागो नापगच्छति इति चेत् , तदपगमादृते रागवतः सम्यग्ज्ञानोदयायोगात् इतरेतराश्रयता इति, नेत्याह -

नासतीति ।

इन्द्रियाणां विषयपारवश्ये विवेकद्वारा परिहृते स्थूलो रागो व्यावर्तते । ततश्च सम्यग्ज्ञानोत्पत्त्या सूक्ष्मस्यापि रागस्य सर्वात्मना निवृत्त्युपपत्तेः, न इतरेतराश्रयता - इत्यर्थः ।

प्रज्ञास्थैर्यस्य सफलत्वे स्थिते फलितमाह -

तस्मादिति

॥ ५९ ॥