श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विषया विनिवर्तन्ते निराहारस्य देहिनः
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥
यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि इन्द्रियाणि निराहारस्य अनाह्रियमाणविषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः रसवर्जं रसो रागो विषयेषु यः तं वर्जयित्वारसशब्दो रागे प्रसिद्धः, स्वरसेन प्रवृत्तः रसिकः रसज्ञः, इत्यादिदर्शनात्सोऽपि रसो रञ्जनारूपः सूक्ष्मः अस्य यतेः परं परमार्थतत्त्वं ब्रह्म दृष्ट्वा उपलभ्यअहमेव तत्इति वर्तमानस्य निवर्तते निर्बीजं विषयविज्ञानं सम्पद्यते इत्यर्थः असति सम्यग्दर्शने रसस्य उच्छेदःतस्मात् सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यमित्यभिप्रायः ॥ ५९ ॥

विषयोपभोगपराङ्मुखस्य कुतो विषयपरावृत्तिः ? तत्परावृत्तिश्च अप्रस्तुता, इत्याशङ्क्याह -

यद्यपीति ।

निराहारस्येत्यस्य व्याख्याानम् - अनाह्रियमाणविषयस्येति । यो हि विषयप्रवणो न भवति, तस्य आत्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनस्यापि इन्द्रियाणि विषयेभ्यः सकाशाद् यद्यपि संह्रियन्ते, तथापि रागोऽवशिष्यते । स च तत्त्वज्ञानादुच्छिद्यत इत्यर्थः ।

रसशब्दस्य माधुर्यादिषङ्विधरसविषत्वं निषेधति-

रसशब्द इति ।

वृद्धप्रयोगमन्तरेण कथं प्रसिद्धिः ? इत्याशङ्क्याह -

स्वरसेनेति ।

स्वेच्छयेति यावत् । रसिकः - स्वेच्छावशवर्ती । रसज्ञः - विवक्षितापेक्षितज्ञातेत्यर्थः ।

कथं तर्हि तस्य निवृत्तिः ? तत्राह-

सोऽपीति ।

दृष्टिमेवोपलब्धिपर्यायां स्पष्टयति -

अहमेवेति ।

रागापगमे सिद्धमर्थमाह -

निर्बीजमिति ।

ननु - सम्यग्ज्ञानमन्तरेण रागो नापगच्छति इति चेत् , तदपगमादृते रागवतः सम्यग्ज्ञानोदयायोगात् इतरेतराश्रयता इति, नेत्याह -

नासतीति ।

इन्द्रियाणां विषयपारवश्ये विवेकद्वारा परिहृते स्थूलो रागो व्यावर्तते । ततश्च सम्यग्ज्ञानोत्पत्त्या सूक्ष्मस्यापि रागस्य सर्वात्मना निवृत्त्युपपत्तेः, न इतरेतराश्रयता - इत्यर्थः ।

प्रज्ञास्थैर्यस्य सफलत्वे स्थिते फलितमाह -

तस्मादिति

॥ ५९ ॥