इन्द्रियाणां विषयेभ्यो वैमुख्येऽपि तद्विषयरागानुवृत्तौ कथं प्रज्ञालाभः स्यात् ? इति शङ्कते -
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः । विषयान् अनाहरतः - तदुपभोगविमुखस्येत्यर्थः ।
रागश्चेन्नोपसंह्रियते, न तर्हि प्रज्ञालाभः सम्भवति, रागस्य तत्परिपन्थित्वात् इति मत्वा आह -
स कथमिति ।
रागनिवृत्त्युपायमुपदिशन्नुत्तरमाह -
उच्यत इति ।