श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥
यततः प्रयत्नं कुर्वतः हि यस्मात् कौन्तेय पुरुषस्य विपश्चितः मेधाविनः अपि इति व्यवहितेन सम्बन्धःइन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य हरन्ति प्रसभं प्रसह्य प्रकाशमेव पश्यतो विवेकविज्ञानयुक्तं मनः ॥ ६० ॥

ननु   - विवेकवतो विषयदोषदर्शिनो विषयेभ्यः स्वयमेवेन्द्रियाणि व्यावर्तन्ते, किं तत्र प्रज्ञास्थैर्यं चिकीर्षता कर्तव्यम् ? इति, तत्राह -

यततो हीति ।

विषयेषु भूयो भूयो दोषदर्शनमेवप्रयत्नः ।

अपिशब्दस्य प्रयत्नं कुर्वतोऽपीति सम्बन्धं गृहीत्वा, सम्बन्धान्तरमाह -

पुरुषस्येति ।

प्रमथनशीलत्वं प्रकटयति -

विषयेति ।

विक्षोभस्य आकुलीकरणस्य फलमाह -

आकुलीकृत्येति ।

प्रकाशमेवेत्युक्तं विशदयति -

पश्यत इति ।

विपश्चितः - विदुषोऽपि, प्रकाशमेव - प्रकाशशब्दितविवेकाख्यविज्ञानेन युक्तमेव मनो हरन्तीन्द्रियाणीति सम्बन्धः ।

॥ ६० ॥