श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रसादे सर्वदुःखानां हानिरस्योपजायते
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥
प्रसादे सति किं स्यात् इत्युच्यते —

तथापि नानाविधदुःखाभिभूतत्वात् न स्वास्थ्यमास्थातुं शक्यम् , इत्याशयेन पृच्छति -

प्रसाद इति ।

श्लोकार्धेनोत्तरमाह -

उच्यत इति ।