विक्षिप्तचेतसो भावनाभावे साक्षात्कारलक्षणा बुद्धिर्न भवतीति हेत्वन्तरेण साधयति -
इन्द्रियाणामिति ।
यत्पदोपात्तं मनः, तत्पदेनापि गृह्यते । इन्द्रियाणां - श्रोत्रादीनां, विषयाः - शब्दादयः, तेषां विकल्पनं - मिथो विभज्य ग्रहणम् , तेनेति यावत् ।
दृष्टान्तं व्याकरोति -
उदक इति ।
करोति यस्मात् तस्मात् अयुक्तस्य नोत्पद्यते बुद्धिरिति योजना ॥ ६७ ॥