श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥
इन्द्रियाणां हि यस्मात् चरतां स्वस्वविषयेषु प्रवर्तमानानां यत् मनः अनुविधीयते अनुप्रवर्तते तत् इन्द्रियविषयविकल्पनेन प्रवृत्तं मनः अस्य यतेः हरति प्रज्ञाम् आत्मानात्मविवेकजां नाशयतिकथम् ? वायुः नावमिव अम्भसि उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं प्रवर्तयति, एवमात्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां करोति ॥ ६७ ॥

विक्षिप्तचेतसो भावनाभावे साक्षात्कारलक्षणा बुद्धिर्न भवतीति हेत्वन्तरेण साधयति -

इन्द्रियाणामिति ।

यत्पदोपात्तं मनः, तत्पदेनापि गृह्यते । इन्द्रियाणां - श्रोत्रादीनां, विषयाः - शब्दादयः, तेषां विकल्पनं - मिथो विभज्य ग्रहणम् , तेनेति यावत् ।

दृष्टान्तं व्याकरोति -

उदक इति ।

करोति यस्मात् तस्मात् अयुक्तस्य नोत्पद्यते बुद्धिरिति योजना ॥ ६७ ॥