श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥
या निशा रात्रिः सर्वपदार्थानामविवेककरी तमःस्वभावत्वात् सर्वभूतानां सर्वेषां भूतानाम्किं तत् परमार्थतत्त्वं स्थितप्रज्ञस्य विषयःयथा नक्तञ्चराणाम् अहरेव सदन्येषां निशा भवति, तद्वत् नक्तञ्चरस्थानीयानामज्ञानां सर्वभूतानां निशेव निशा परमार्थतत्त्वम् , अगोचरत्वादतद्बुद्धीनाम्तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान् , जितेन्द्रियो योगीत्यर्थःयस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां प्रसुप्तान्येव भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो मुनेः

सर्वप्राणिनां निशा पदार्थाविवेककरी इत्यत्र हेतुमाह -

तमःस्वभावत्वादिति ।

 सर्वप्राणिसाधारणीं प्रसिद्धां निशां दर्शयित्वा, तामेव प्रकृतानुगुणत्वेन प्रश्नपूर्वकं विशदयति -

किं तदित्यादिना ।

स्थितप्रज्ञविषयस्य परमार्थतत्त्वस्य प्रकाशैकस्वभावस्य कथमज्ञानं प्रति निशात्वम् ? इत्याशङ्क्याह -

यथेति ।

तत्र हेतुमाह-

अगोचरत्वादिति ।

अतद्बुद्धीनां परमार्थतत्त्वातिरिक्ते द्वैतप्रपञ्चे प्रवृत्तबुद्धीनाम् अप्रतिपन्नत्वात् परमार्थतत्त्वं निशेव अविदुषामित्यर्थः ।

तस्यामित्यादि व्याचष्टे -

तस्यामिति ।

निशावदुक्तायामवस्थायामिति यावत् । योगीति ज्ञानी कथ्यते ।

द्वितीयार्धं विभजते -

यस्यामिति ।

प्रसुप्तानां जागरणं विरुद्धम् , इत्याशङ्क्याह -

प्रसुप्ता इवेति ।

परमार्थतत्त्वमनुभवतो निवृत्ताविद्यस्य संन्यासिनो द्वैतावस्था निशा इत्यत्र हेतुमाह -

अविद्यारूपत्वादिति ।