प्रवर्तकं प्रमाणं विधिः, तदभावे कर्मस्विव विदुषो ज्ञाननिष्ठायामपि प्रवृत्तेरनुपपत्तेः, आश्रयणीयो ज्ञानवतोऽपि विधिरिति शङ्कते -
तत्रापीति ।
किमात्मज्ञानं विधिमपेक्षते ? किं वा आत्मा ? नाद्यः । तस्य स्वरूपविषयस्य यथाप्रमाणप्रमेयमुत्पत्तेर्विध्यनपेक्षत्वादित्याह -
न स्वात्मेति ।
न द्वितीय इत्याह-
नहीति ।
प्रवर्तकप्रमाणशब्दितस्य विधेः साध्यविषयत्वात् आत्मनश्चासाध्यत्वादिति हेतुमाह -
आत्मत्वादेवेति ।
आत्मतज्ज्ञानयोर्विघ्यनपेक्षत्वेऽपि ज्ञानिनो मानमेव व्यवहारं प्रति नियमार्थं विध्यपेक्षा स्यात् , इत्याशङ्क्याह -
तदन्तत्वाच्चेति ।
सर्वेषां प्रमाणानां प्रामाण्यस्य आत्मज्ञानोदयावसानत्वात् तस्मिन्नुत्पन्ने व्यवहारस्य निरवकाशत्वात् , न तत्प्रति नियमाय ज्ञानिनो विधिरित्यर्थः ।
उक्तमेव व्यक्तीकरोति -
नहीति ।
धर्माधिगमवदात्माधिगमेऽपि किमिति यथोक्तो व्यवहारो न भवति ? इत्याशङ्क्याह -
प्रमातृत्वं हीति ।
तन्निवृत्तौ कथमद्वैतज्ञानस्य प्रामाण्यम् ? इत्याशङ्क्याह -
निवर्तयदेवेति ।
निवर्तयत् अद्वैतज्ञानं स्वयं निवृत्तेर्न प्रमाणम् , इत्यत्र दृष्टान्तमाह -
स्वप्नेति ।
आत्मज्ञानस्य विध्यनपेक्षत्वे हेत्वन्तरमाह -
लोके चेति ।
व्यवहारभूमौ हि प्रमाणस्य वस्तुनिश्वयफलपर्यन्तत्वे सति प्रवर्तकविधिसापेक्षत्वानुपलम्भात् अद्वैतज्ञानमपि प्रमाणत्वात् न विधिमपेक्षते, रज्ज्वादिज्ञानवदित्यर्थः ।
आत्मज्ञानवतस्तन्निष्ठाविधिमन्तरेण ज्ञानमाहत्म्येनैव सिद्धत्वात् , तस्य कर्मसंन्यासेऽधिकारः, न कर्मणि, इत्युपसंहरति -
तस्मादिति
॥ ६९ ॥