श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः, तु असंन्यासिनः कामकामिनः इत्येतमर्थं दृष्टान्तेन प्रतिपादयिष्यन् आह
विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः, तु असंन्यासिनः कामकामिनः इत्येतमर्थं दृष्टान्तेन प्रतिपादयिष्यन् आह

ननु - असंन्यासिनापि विद्यावतां विद्याफलस्य मोक्षस्य लब्धुं शक्यत्वात् किमिति विदुषः संन्यासो नियम्यते ? तत्राह -

विदुष इति ।

आपातज्ञानवतो विवेकवैराग्यादिविशिष्टस्य एषणाभ्यः सर्वाभ्योऽभ्युत्थितस्य श्रवणादिद्वारा समुत्पन्नसाक्षात्कारवतो मुख्यस्य संन्यासिनो मोक्षः, न अन्यस्य विषयतृष्णापरिभूतस्य, इत्येतत् दृष्टान्तेन प्रतिपादयितुमिच्छन् , ‘रागद्वेषवियुक्तैस्तु’ (भ. गी. २. ६४) इति श्लोकोक्तमेवार्थं पुनराहेति योजना ।