श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
ज्यायसी श्रेयसी चेत् यदि कर्मणः सकाशात् ते तव मता अभिप्रेता बुद्धिर्ज्ञानं हे जनार्दन । यदि बुद्धिकर्मणी समुच्चिते इष्टे तदा एकं श्रेयःसाधनमिति कर्मणो ज्यायसी बुद्धिः इति कर्मणः अतिरिक्तकरणं बुद्धेरनुपपन्नम् अर्जुनेन कृतं स्यात् ; न हि तदेव तस्मात् फलतोऽतिरिक्तं स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः, अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत् किं नु कारणमिति भगवत उपालम्भमिव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च यदाह, तच्च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवता उक्तः अर्जुनेन च अवधारितश्चेत् , ‘तत्किं कर्मणि घोरे मां नियोजयसि’ (भ. गी. ३ । १) इत्यादि कथं युक्तं वचनम् ॥ १ ॥

प्राथमिकेन सम्बन्धग्रन्थेन समस्तशास्त्रार्थसङ्ग्राहकेण तद्विवरणात्मनोऽस्य सन्दर्भस्य नास्ति पौनरुक्त्यामिति मत्वा, प्रतिपदं व्याख्यातुं प्रश्नैकदेशं समुत्थापयति -

ज्यायसी चेदिति ।

वेदाश्चेत् प्रमाणमितिवत् चेदित्यस्य निश्चयार्थत्वं व्यावर्तयति -

यदीति ।

बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यवच्छिनत्ति -

ज्ञानमिति ।

पूर्वार्धस्याक्षरयोजनां कृत्वा समुच्चयाभावे तात्पर्यमाह -

यदीति ।

इष्टे,भगवतेति शेषः । एकं ज्ञानं कर्म च समुच्चितमिति यावत् । ज्ञानकर्मणोरभीष्टे समुच्चये समुच्चितस्य श्रेयःसाधनस्यैकत्वात् कर्मणः सकाशाद् ज्ञानस्य पृथक्करणमयुक्तमित्यर्थः ।

एकमपि साधनं फलतोऽतिरिक्तं किं न स्यादित्याशङ्क्याह -

नहीति ।

नच केवलात् कर्मणो ज्ञानस्य केवलस्य फलतोऽतिरिक्तत्वं विवक्षित्वा पृथक्करणं, समुच्चयपक्षे प्रत्येकं श्रेयः साधनत्वानभ्युपगमादिति भावः ।

पूर्वार्धस्येवोत्तरार्धस्यापि समुच्चयपक्षे तुल्यानुपपत्तिरित्याह -

तथेति ।

‘दूरेण ह्यवरं कर्म ‘ (भ. गी. २-३०) इत्यत्र कर्मणः सकाशाद् बुद्धिः श्रेयस्करी भगवतोक्ता । कर्म च बुद्धेः सकाशादश्रेयस्करमुक्तम् । तथाऽपि तदेव कर्म ‘कर्मण्येवाधिकारस्ते मा फलेषु’ (भ. गी. २-४७) इति स्निग्धं भक्तं च मां प्रति कुर्विति भगवान् प्रतिपादयति, तत्र कारणानुपलम्भादयुक्तम् , अतिक्रूरे कर्मणि भगवतो मन्नियोजनमिति यदर्जुनो ब्रवीति, तच्च समुच्चयपक्षेऽनुपपन्नः स्यादित्यर्थः ।

यत्तु वृत्तिकारैुरुक्तं ‘श्रौतेन स्मार्तेन च कर्मणा समुच्चयो गृहस्थानां श्रेयःसाधनम् , इतरेषां स्मार्तेनैवेति भगवतोक्तमर्जुनेन च निर्धारितम्’ इति, तदेतदनुवदति –

अथेति ।

तत्रापि ’तत्किम्’इत्याद्युपालम्भवचनमनुपपन्नं, कर्ममात्रसमुच्चयवादिनो भगवतो नियोजनाभावादिति दूषयति –

तत्किमिति

॥१॥