श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शास्त्रस्य प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्‍ख्ये बुद्धिः योगे बुद्धिः इति तत्र प्रजहाति यदा कामान्’ (भ. गी. २ । ५५) इत्यारभ्य अध्यायपरिसमाप्तेः साङ्‍ख्यबुद्ध्याश्रितानां संन्यासं कर्तव्यमुक्त्वा तेषां तन्निष्ठतयैव कृतार्थता उक्ताएषा ब्राह्मी स्थितिः’ (भ. गी. २ । ७२) इतिअर्जुनाय कर्मण्येवाधिकारस्ते . . . मा ते सङ्गोऽस्त्वकर्मणि’ (भ. गी. २ । ४७) इति कर्मैव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य, तत एव श्रेयःप्राप्तिम् उक्तवान्तदेतदालक्ष्य पर्याकुलीकृतबुद्धिः अर्जुनः उवाचकथं भक्ताय श्रेयोर्थिने यत् साक्षात् श्रेयःप्राप्तिसाधनं साङ्‍ख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थयुक्ते पारम्पर्येणापि अनैकान्तिकश्रेयःप्राप्तिफले नियुञ्ज्यात् इति युक्तः पर्याकुलीभावः अर्जुनस्य, तदनुरूपश्च प्रश्नः ज्यायसी चेत्’ (भ. गी. ३ । १) इत्यादिः, प्रश्नापाकरणवाक्यं भगवतः युक्तं यथोक्तविभागविषये शास्त्रे

पूर्वोत्तराध्याययोः सम्बन्धं वक्तुं पूर्वस्मिन्नध्याये वृत्तमर्थं सङ्क्षिप्यानुवदति -

शास्त्रस्येति ।

गीताशास्त्रप्रारम्भापेक्षितं हेतुफलभूतं बुद्धिद्वयं भगवतोपदिष्टमित्यर्थः ।

प्रष्टुरर्जुनस्याभिप्रायं निर्देष्टुं प्रवृत्तमर्थान्तरमनुवदति -

तत्रेति ।

अध्यायो बुद्धिद्वयनिर्धारणं वा सप्तम्यर्थः । पारमार्थिके तत्त्वे यज्ज्ञानं तन्निष्ठानामशेषकामत्यागिनां कामयुक्तानां कर्मिणामपि प्रतिपत्तिकर्मवत् त्यागं कर्तव्यत्वेन भगवानुक्तवानित्यर्थः ।

तथाऽपि मोक्षसाधने विकल्पसमुच्चययोरन्यतरस्य विवक्षितत्वबुद्ध्या समनन्तरप्रश्नप्रवृत्तिरित्याशङ्क्याह -

उक्तेति ।

अर्जुनस्य मनसि व्याकुलत्वं प्रश्नबीजं दर्शयितुमुक्तमर्थान्तरमनुभाषते -

अर्जुनाय चेति ।

साङ्ख्यबुद्धिमाश्रित्य कर्मत्यागमुक्त्वा, पुनस्तस्यैव कर्तव्यत्वं कथं मिथो विरुद्धं ब्रवीति ? इत्याशङ्क्याह -

योगेति ।

यथा साङ्ख्यबुद्धिमाश्रितानां संन्यासद्वारा तन्निष्ठानां कृतार्थतोक्ता, तथा योगबुद्धिमाश्रित्य कर्म कुर्वतोऽपि कृतार्थत्वमुक्तमित्याशङ्क्याह -

न तत एवेति ।

‘दूरेण ह्यवरं कर्म बुद्धियोगात्’ (भ. गी. २-४९) इति दर्शनादिति शेषः ।

बुद्धिव्याकुलत्वं प्रश्नबीजं प्रतिलभ्य प्रश्नं करोतीत्याह -

तदेतदिति ।

साक्षादेव श्रेयःसाधनं ज्ञानमन्येभ्यो दर्शितं - तदित्युच्यते । तद्विपरीतं कर्म स्वस्यानुष्ठेयत्वेनोक्तम् - एतदिति निर्दिश्यते । भगवदुक्तेऽर्थे सन्दिह्यमानस्य निर्णयाकाङ्क्षया प्रश्नप्रवृत्तेरस्ति पूर्वोत्तराध्याययोरुत्थाप्योत्थापकलक्षणा सङ्गतिरित्यर्थः ।

अर्जुनस्य प्रश्ननिमित्तं पर्याकुलत्वं प्रपञ्चयति -

कथमित्यादिना ।

यद्धि साक्षादेव श्रेयःसाधनं साङ्ख्यशब्दितपरमार्थतत्त्वविषयबुद्धौ निष्ठारूपं, तद् अन्यस्मै श्रेयोऽर्थिने भक्ताय श्रावयित्वा, मां पुनरभक्तम् अश्रेयोऽर्थिनमिव कर्मणि पूर्वोक्तविपरीते कथं भगवान् नियोक्तुमर्हतीत्यर्जुनस्य पर्याकुलीभावो युक्त इति सम्बन्धः ।

ज्ञाननिष्ठातो वैपरीत्यं स्फोरयितुं कर्म विशिनष्टि -

दृष्टेति ।

युद्धे हि क्षत्रकर्मणि दृष्टोऽनेकोऽनर्थो गुरुभ्रातृहिंसादिः तेन सम्बद्धे बुद्धिशुद्धिद्वाराऽपि वर्तमाने जन्मन्येव फलमित्यनियते । मम -भक्तस्य श्रेयोऽर्थिनो नियोगो भगवता युक्तो न भवतीति शेषः ।

यथोक्तं निमित्तं प्रश्नस्य युक्तं तदनुगुणत्वात् तस्येति द्योतकमाह -

तदनुरूपश्चेति ।

ज्ञाननिष्ठानां कृतार्थता, कर्मनिष्ठानां तु न तथेत्युक्तम् ।

विभागभागि शास्त्रमित्यत्र ‘लोकेऽस्मिन्’ (भ. गी. ३-३) इत्यादिवाक्यस्यापि द्योतकत्वं दर्शयति -

प्रश्नेति ॥