श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
केचित्तुअर्जुनस्य प्रश्नार्थमन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति, यथा आत्मना सम्बन्धग्रन्थे गीतार्थो निरूपितः तत्प्रतिकूलं इह पुनः प्रश्नप्रतिवचनयोः अर्थं निरूपयन्तिकथम् ? तत्र सम्बन्धग्रन्थे तावत्सर्वेषामाश्रमिणां ज्ञानकर्मणोः समुच्चयः गीताशास्त्रे निरूपितः अर्थः इत्युक्तम् ; पुनः विशेषितं यावज्जीवश्रुतिचोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानात् मोक्षः प्राप्यते इत्येतत् एकान्तेनैव प्रतिषिद्धमितिइह तु आश्रमविकल्पं दर्शयता यावज्जीवश्रुतिचोदितानामेव कर्मणां परित्याग उक्तःतत् कथम् ईदृशं विरुद्धमर्थम् अर्जुनाय ब्रूयात् भगवान् , श्रोता वा कथं विरुद्धमर्थमवधारयेत्

साक्षादेव श्रेयःसाधनमन्येभ्यो भगवतोक्तम्, न तु मह्यमिति मत्वा व्याकुलीभूतः सन् पृच्छतीति स्वाभिप्रायेण सम्बन्धमुक्त्वा वृत्तिकाराभिप्रायं दूषयति -

केचित्त्विति ।

ज्ञानकर्मणोः समुच्चयमवधारयितुं प्रश्नाङ्गीकारे समुच्चयावधारणेनैव प्रतिवचनमुचितम् । न च तथा भगवता प्रतिवचनमुक्तम् । तथा च प्रश्नस्य समुच्चयविषयत्वोपगमात् प्रत्युक्तेश्चासमुच्चयविषयत्वात् तयोर्मिथो विरोधो वृत्तिकारमते स्यादित्यर्थः ।

किञ्च, केवलं प्रश्नप्रतिवचनयोरेव परमते परस्परविरोधो न भवति, अपि तु परेषां स्वग्रन्थेऽपि पूर्वापरविरोधोऽस्तीत्याह -

यथा चेति ।

आत्मना - वृत्तिकारैरिति यावत् । सम्बन्धग्रन्थः - गीताशास्रारम्भोपोद्घातः । इहेति तृतीयाध्यायारम्भं परामृशति । तदेव विवृण्वन्नाकाङ्क्षामाह -

कथमिति ।

पूर्वापरविरोधं स्फोरयितुं सम्बन्धग्रन्थोक्तमनुवदति -

तत्रेति ।

परकीया वृत्तिः सप्तम्या समुल्लिख्यते । सम्बन्धग्रन्थे तावदयमर्थ उक्त इति सम्बन्धः ।

तमेवार्थं विशदयति -

सर्वेषामिति ।

सर्वकर्मसंन्यासपूर्वकज्ञानादेव केवलात् कैवल्यमित्यस्मिन्नर्थे शास्त्रस्य पर्यवसानान्न समुच्चयो विवक्षितस्तत्रेत्याशङ्क्याह -

पुनरिति ।

उक्तगीतार्थो वृत्तिकारैरेव कर्मत्यागायोगेन विशेषितत्वान्नाविवक्षितोऽलं भवितुमुत्सहते । तथा च श्रौतानि कर्माणि त्यक्त्वा ज्ञानादेव केवलान्मुक्तिर्भवतीत्येतन्मतं नियमेनैव यावज्जीवश्रुतिभिर्विप्रतिषिद्धत्वात् नाभ्युपगन्तुमुचितमित्यर्थः।

तथाऽपि कथं मिथो विरोधधीरित्याशङ्क्याह -

इह त्विति ।

प्रथमतो हि सम्बन्धग्रन्थे समुच्चयो गीतार्थप्रतिपाद्यत्वेन वृत्तिकृता प्रतिज्ञातः । श्रौतकर्मपरित्यागश्च श्रुतिविरोधादेव न सम्भवतीत्युक्तम् । तृतीयाध्यायारम्भे पुनः संन्यासिनां ज्ञाननिष्ठा, कर्मिणां कर्मनिष्ठेत्याश्रमविभागमभिदधता पूर्वप्रतिषिद्धकर्मत्यागाभ्युपगमान्मिथो विरोधो दर्शितः स्यादित्यर्थः ।

ननु यथा भगवता प्रतिपादितं, तथैव वृत्तिकृता व्याख्यातमिति न तस्यापराधोऽस्तीत्याशङ्क्याह -

तत्कथमिति ।

न हीह भगवान् विरुद्धमर्थमभिधत्ते, सर्वज्ञस्य परमाप्तस्य विरुद्धार्थवादित्वायोगात् । किन्तु तदभिप्रायापरिज्ञानादेव व्याख्यातुर्विरुद्धार्थवादितेत्यर्थः ।

भगवतो विरुद्धार्थवादित्वाभावेऽपि श्रोतुर्विरुद्धार्थप्रतिपत्तिं प्रतीत्य व्याचक्षाणो वृत्तिकारो नापराध्यतीत्याशङ्क्याह -

श्रोता वेति ।

अर्जुनो हि श्रोता । सोऽपि बुद्धिपूर्वकारी भगवदुक्तमेवावधारयन् न विरुद्धमर्थमवधारयितुमर्हति । तथा च परस्यैव विरुद्धार्थवादितेत्यर्थः ॥