श्रौतं कर्म गृहस्थानामवश्यमनुष्ठेयमित्यनेनाभिप्रायेण तेषां केवलादात्मज्ञानान्मोक्षो निषिध्यते । न तु गृहस्थानां ज्ञानमात्रायत्तं मोक्षं प्रतिषिध्य अन्येषां केवलज्ञानाधीनो मोक्षो विवक्ष्यते, आश्रमान्तराणामपि स्मार्तेन कर्मणा समुच्चयाभ्युपगमादिति चोदयति -
अथेति ।
एतत्परामृष्टं वचनमेवाभिनयति -
केवलादिति ।
ननु गृहस्थानां श्रौतकर्मराहित्येऽपि, सति स्मार्ते कर्मणि कुतो ज्ञानस्य केवलत्वं लभ्यते ? येन निषेधोक्तिरर्थवती, तत्राह -
तत्रेति ।
प्रकृतवचनमेव सप्तम्यर्थः, प्रधानं हि श्रौतं कर्म । तद्राहित्ये सति, स्मार्तस्य कर्मणः सतोऽप्यसद्भावमभिप्रेत्य ज्ञानस्य केवलत्वमुक्तमिति युक्ता निषेधोक्तिरित्यर्थः ।
गृहस्थानामेव श्रौतकर्मसमुच्चयो नान्येषाम् , अन्येषां तु स्मार्तेनेति पक्षपाते हेत्वभावं मन्वानः सन् परिहरति -
एतदपीति ।
तमेव हेतभावं प्रश्नद्वारा विवृणोति -
कथमित्यादिना ।
गृहस्थानां श्रौतस्मार्तकर्मसमुच्चितं ज्ञानं मुक्तिहेतुरित्यभ्युपगमात् केवलस्मार्तकर्मसमुच्चितात् ततो न मुक्तिरिति निषेधो युज्यते । ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिताज्ज्ञानान्मुक्तिरिति विभागे नास्ति हेतुरित्यर्थः ।
पक्षपाते कारणं नास्तीत्युक्त्वा पक्षपातपरित्यागे कारणमस्तीत्याह -
किञ्चेति ।
गृहस्थानामपि ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षसाधनं, ब्रह्मज्ञानत्वादूर्ध्वरेतःसु व्यवस्थितब्रह्मज्ञानवदिति पक्षपातत्यागे हेतुं स्फुटयति -
यदीत्यादिना ॥