श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः — न, मुमुक्षोः सर्वकर्मसंन्यासविधानात् । ‘पुत्रैषणाया वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) ‘तस्मात् न्यासमेषां तपसामतिरिक्तमाहुः’ (तै. ना. ७९) ‘न्यास एवात्यरेचयत्’ (तै. ना. ७८) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. १२) इति च । ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्याद्याः श्रुतयः । ‘त्यज धर्ममधर्मं च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । ’ (मो. ध. ३२९ । ४०) ‘संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः’ ( ? ) इति बृहस्पतिः । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१ । ७) इति शुकानुशासनम् । इहापि च ‘सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५ । १३) इत्यादि ॥

यदि सर्वेषामाश्रमाणां श्रुतिस्मृतिमूलत्वं, तर्हि तत्तदाश्रमविहितकर्मणां ज्ञानेन समुच्चयः सिध्यतीति शङ्कते -

सिद्धस्तर्हीति ।

यद्यपि ज्ञानोत्पत्तावाश्रमकर्मणां साधनत्वं, तथाऽपि ज्ञानमुत्पन्नं नैव फले सहकारित्वेन तान्यपेक्षते, अन्यथा संन्यासविध्यनुपपत्तेरिति दूषयति -

न मुमुक्षोरिति ।

संन्यासविधानमेवानुक्रामति -

व्युत्थायेत्यादिना ।

एषणाभ्यो वैमुख्येनोत्थानं - तत्परित्यागः ।

आश्रमसम्पत्त्यनन्तरं तत्र विहितधर्मकलापानुष्ठानमपि कर्तव्यमित्याह -

अथेति ।

प्रागुक्तानां सत्यादीनामल्पफलत्वाद् न्यासस्य च ज्ञानद्वारा मोक्षफलत्वादित्याह -

तस्मादिति ।

अतिरिक्तम् -अतिशयवन्तं, महाफलमिति यावत् ।

प्रकृतकर्मभ्यः सकाशान्न्यास एवातिशयवान् आसीदित्युक्तेऽर्थे वाक्यान्तरं पठति -

न्यास एवेति ।

लोकत्रयहेतुं साधनत्रयं परित्यज्य संसाराद् विरक्ताः संन्यासपूर्वकादात्मज्ञानादेव प्राप्तवन्तो मोक्षमित्याह -

न कर्मणेति ।

सति वैराग्य नास्ति कर्मापेक्षा, सत्यां सामग्र्यां कार्याक्षेपानुपपत्तेरित्याह -

ब्रह्मचर्यादेवेति ।

इत्याद्याः - सर्वकर्मसंन्यासविधायिन्यः, श्रुतयः, भवन्तीति शेषः ।

‘आत्मानमेव लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४-४-२२) इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । तत्रैव स्मृतिमुदाहरति -

त्यजेति ।

धर्माधर्मयोः सत्यानृतयोश्च संसारारम्भ्कत्वाद् मुमुक्षुणा तत्त्यागे प्रयतितव्यमित्यर्थः ।

त्यक्तृत्वाभिमानस्यापि तत्त्वतः स्वरूपसम्बन्धाभावात् त्याज्यत्वमविशिष्टमित्याह -

येनेति ।

अनुभवानुसारेण प्रमातृताप्रमुखरय संसारस्य दुःखफलत्वमालक्ष्य मोक्षहेतुसम्यग्ज्ञानसिद्धये ब्रह्मचर्यादेव पारिव्रज्यमनुष्ठेयमित्युत्पत्तिविधिमुपन्यस्यति -

संसारमिति ।

तत्त्वज्ञानमुद्दिश्य ब्रह्मचर्यादेव कर्मसंन्याससामग्रीमभिदधानो विनियोगविधिं सूचयति -

परमिति ।

ज्ञानकर्मणोरसमुच्चयार्थं फलविभागं कथयति -

कर्मणेति ।

उक्तं फलविभागमनूद्य ज्ञाननिष्ठानां कर्मसंन्यासस्य कर्तव्यत्वमाह -

तस्मादिति ।

वाक्यशेषेऽपि सर्वकर्मसंन्यासो विवक्षितोऽस्तीत्याह -

इहापीति ॥