श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
यदि हि भगवता द्वितीयेऽध्याये ज्ञानं कर्म च समुच्चित्य त्वया अनुष्ठेयम् इत्युक्तं स्यात् , ततः अर्जुनस्य प्रश्नः अनुपपन्नः ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति । अर्जुनाय चेत् बुद्धिकर्मणी त्वया अनुष्ठेये इत्युक्ते, या कर्मणो ज्यायसी बुद्धिः सापि उक्तैव इति ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’ (भ. गी. ३ । १) इति उपालम्भः प्रश्नो वा न कथञ्चन उपपद्यते । न च अर्जुनस्यैव ज्यायसी बुद्धिः न अनुष्ठेया इति भगवता उक्तं पूर्वम् इति कल्पयितुं युक्तम् , येन ‘ज्यायसी चेत्’ इति विवेकतः प्रश्नः स्यात् ॥

प्रश्नानुपपत्तिमेव प्रपञ्चयति -

यदि हीति ।

समुच्चयोपदेशे प्रश्नैकदेशानुपपत्तेश्च न तदुपदेशोपपत्तिरित्याह -

अर्जुनायेति ।

‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’ (भ. गी. २-४७) इत्यर्जुनं प्रत्युपदेशात् तं प्रति ज्यायसी बुद्धिर्नोक्तेति युक्तं, ‘तत् किम्’ (भ. गी. ३-१) इत्याद्युपालम्भवचनमित्याशङ्क्याह -

नचेति ।

येन कल्पनेन ‘ज्यायसी चेद्’ (भ. गी. ३-१) इत्यारभ्यं ‘तत्किं कर्मणि’ (भ. गी. ३-१) इत्युपालम्भात्मा प्रश्नः स्यात् तथा न युक्तं कल्पयितुम् ‘एषा तेऽभिहिता साङ्ख्ये बुद्धि’ (भ. गी. २-३९ ) इति वचनविरोधादिति योजना ।