श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ
ज्ञानयोगेन साङ्‍ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥
लोके अस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां द्विविधा द्विप्रकारा निष्ठा स्थितिः अनुष्ठेयतात्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासाम् अभ्युदयनिःश्रेयसप्राप्तिसाधनं वेदार्थसम्प्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघ अपाप । तत्र का सा द्विविधा निष्ठा इत्याह — तत्र ज्ञानयोगेन ज्ञानमेव योगः तेन साङ्ख्यानाम् आत्मानात्मविषयविवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येव अवस्थितानां निष्ठा प्रोक्ता । कर्मयोगेन कर्मैव योगः कर्मयोगः तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्यर्थः । यदि च एकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्य अनुष्ठेयं भगवता इष्टम् उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम् , कथमिह अर्जुनाय उपसन्नाय प्रियाय विशिष्टभिन्नपुरुषकर्तृके एव ज्ञानकर्मनिष्ठे ब्रूयात् ? यदि पुनः ‘अर्जुनः ज्ञानं कर्म च द्वयं श्रुत्वा स्वयमेवानुष्ठास्यति अन्येषां तु भिन्नपुरुषानुष्ठेयतां वक्ष्यामि इति’ मतं भगवतः कल्प्येत, तदा रागद्वेषवान् अप्रमाणभूतो भगवान् कल्पितः स्यात् । तच्चायुक्तम् । तस्मात् कयापि युक्त्या न समुच्चयो ज्ञानकर्मणोः ॥

येयं व्यवहारभूमिरुपलभ्यते, तत्र त्रैवर्णिकाः ज्ञानं कर्म वा शास्त्रीयमनुष्ठातुमधिक्रियन्ते। तेषां द्विधा स्थितिर्मया प्रोक्तेति पूर्वार्धं योजयति -

लोकेऽस्मिन्निति।

स्थितिमेव व्याकरोति -

अनुष्ठेयेति।

पूर्वं प्रवचनप्रसङ्गं प्रदर्शयन् प्रवक्तारं विशिनष्टि -

सर्गादाविति।

प्रवचनस्यायथार्थत्वशङ्कां वारयति -

सर्वज्ञेनेति।

अर्जुनस्य भगवदुपदेशयोग्यत्वं सूचयति -

अनघेति।

निर्धारणार्थे तत्रेति सप्तमी । ज्ञानं - परमार्थवस्तुविषयं तदेव योगशब्दितं, युज्यतेऽनेन ब्रह्मणेति व्युत्पत्तेस्तेन । निष्ठेत्यनुवर्तते।

उक्तज्ञानोपायमुपदिदिक्षुः साङ्ख्यशब्दार्थमाह -

आत्मेति।

तेषामेव कर्मनिष्ठत्वं व्यावर्तयति -

ब्रह्मचर्येति।

तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति -

वेदान्तेति।

उक्तविशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति -

परमहंसेति।

कर्म - वर्णाश्रमविहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्थेन निष्ठा कर्मिणां प्रोक्तेत्यनुषङ्गं दर्शयन्नाह -

कर्मैवेत्यादिना ।

एवं प्रतिवचनवाक्यस्थान्यक्षराणि व्याख्याय तस्यैव तात्पर्यार्थं कथयति -

यदि चेति।

इष्टस्यापि दुर्बोधत्वमाशङ्क्याह -

उक्तमिति।

ज्ञानस्यापि मूलविकलतया विभ्रमत्चमाशङ्क्याह -

वेदेष्विति।

तस्याशिष्यत्वबुद्ध्या अन्यथाकथनमित्याशङ्क्याह -

उपसन्नायेति।

तथापि तस्मिन् औदासीन्यादन्यथोक्तिरित्याशङ्क्याह -

प्रियायेति।

ब्रवीति च भिन्नपुरुषकर्तृकं निष्ठाद्वयं, तेन समुच्चयो भगवदभीष्टः शास्त्रार्थो न भवतीति शेषः।

नन्वर्जुनस्य प्रेक्षापूर्वकारित्वाद् ज्ञानकर्मश्रवणानन्तरमुभयनिर्देशानुउपपत्त्या समुच्चयानुष्ठानं सम्पत्स्यते, तद्व्यतिरिक्तानां तु ज्ञानकर्मणोर्भिन्नपुरुषानुष्ठेयत्वं श्रुत्वा प्रत्येकं तदनुष्ठानं भविष्यतीति भगवतो मतं कल्प्यते, तस्यार्जुनेऽनुरागातिरेकादितरेषु च तदभावादिति तत्राह -

यदि पुनरिति।

अप्रमाणभूतत्वम् - अनाप्तत्वम् ।न च भगवतो रागादिमत्त्वेनाप्तत्वं युक्तम्, ’समं सर्वेषु भूतेषु तिष्ठन्तम्’ इत्यादिविरोधादित्याह -

तच्चेति।

निष्ठाद्वयस्य भिन्नपुरुषानुष्ठेयत्वनिर्देशफलमुपसंहरति -

तस्मादिति।

॥३॥