श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते
संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥
कर्मणां क्रियाणां यज्ञादीनाम् इह जन्मनि जन्मान्तरे वा अनुष्ठितानाम् उपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकारणानां तत्कारणत्वेन ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनाम् , ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणःयथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि’ (मो. ध. २०४ । ८) इत्यादिस्मरणात् , अनारम्भात् अननुष्ठानात् नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन निष्ठां निष्क्रियात्मस्वरूपेणैव अवस्थानमिति यावत्पुरुषः अश्नुते प्राप्नोतीत्यर्थः

‘यस्य वा एतत् कर्म’ (कौ. उ. ४. १७) इति श्रुताविव कर्मशब्दस्य क्रियमाणवस्तुविषयत्वमाशङ्क्य व्याचष्टे -

क्रियाणामिति ।

ताश्चनित्यनैमित्तिकत्वेन विभजते -

यज्ञादीनामिति ।

अस्मिन्नेव जन्मनि अनुष्ठितानां कर्मणां बुद्धिशुद्धिद्वारा ज्ञानकारणत्वे, ब्रह्मचारिणां कुतो ज्ञानोत्पत्तिर्जन्मान्तरकृतानां कर्मणां वा तथात्वे, गृहस्थादीनामैहिकानि कर्माणि न ज्ञानहेतवः स्युरित्याशङ्क्य अनियमं दर्शयति -

इहेति ।

नेमानि सत्त्वशुद्धिकारणानि उपात्तदुरितप्रतिबन्धादित्याशङ्क्याह -

उपात्तेति ।

तर्हि तावतैव कृतार्थानां कुतो ज्ञाननिष्ठाहेतुत्वं, तत्राह -

तत्कारणत्वेनेति ।

कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वे मानमाह -

ज्ञानमिति ।

अनारम्भशब्दस्योपक्रमविपरीतविषयत्वं व्यावर्तयति-

अननुष्ठानादिति ।

निष्कर्मणः संन्यासिनः कर्मज्ञानं नैष्कर्म्यमिति व्याचष्टे -

निष्कर्मेति ।

कर्माभावावस्थां व्यवच्छिनत्ति -

ज्ञानयोगेनेति ।

तस्याः साधनपक्षपातित्वं व्यावर्तयति -

निष्क्रियेति ।