श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते
संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥
कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति वचनात् तद्विपर्ययात् तेषामारम्भात् नैष्कर्म्यमश्नुते इति गम्यतेकस्मात् पुनः कारणात् कर्मणामनारम्भान्नैष्कर्म्यं नाश्नुते इति ? उच्यते, कर्मारम्भस्यैव नैष्कर्म्योपायत्वात् ह्युपायमन्तरेण उपेयप्राप्तिरस्तिकर्मयोगोपायत्वं नैष्कर्म्यलक्षणस्य ज्ञानयोगस्य, श्रुतौ इह , प्रतिपादनात्श्रुतौ तावत् प्रकृतस्य आत्मलोकस्य वेद्यस्य वेदनोपायत्वेन तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन’ (बृ. उ. ४ । ४ । २२) इत्यादिना कर्मयोगस्य ज्ञानयोगोपायत्वं प्रतिपादितम्इहापि संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः’ (भ. गी. ५ । ६) योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये’ (भ. गी. ५ । ११) यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’ (भ. गी. १८ । ५) इत्यादि प्रतिपादयिष्यति

कर्मानुष्ठानोपायलब्धा ज्ञाननिष्ठा स्वतन्त्रा पुमर्थहेतुरिति प्रकृतार्थसमर्थनार्थं व्यतिरेकवचनस्यान्वये पर्यवसानं मत्वा व्याचष्टे -

कर्मणामिति ।

तद्विपर्ययमेव व्याचष्टे -

तेषामिति ।

उक्तेऽर्थे हेतुं पृच्छति -

कस्मादिति ।

जिज्ञासितं हेतुमाह -

उच्यत इति ।

उपायत्वेऽपि तदभावे कुतो नैष्कर्म्यासिद्धिरित्याशङ्क्याह -

नहीति ।

ज्ञानयोगं प्रति कर्मयोगस्योपायत्वे श्रुतिस्मृती प्रमाणयति -

कर्मयोगेति ।

श्रौतमुपायोपेयत्वप्रतिपादनं प्रकटयति -

श्रुताविति ।

यत्तु गीताशास्त्रे कर्मयोगस्य ज्ञानयोगं प्रत्युपायत्वोपपादनं, तदिदानीमुदाहरति -

इहापि चेति ।