श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मां बन्धकारणे कर्मण्येव नियोजयसिइति विषण्णमनसमर्जुनम्कर्म नारभेइत्येवं मन्वानमालक्ष्य आह भगवान् कर्मणामनारम्भात् इतिअथवाज्ञानकर्मनिष्ठयोः परस्परविरोधात् एकेन पुरुषेण युगपत् अनुष्ठातुमशक्त्यत्वे सति इतरेतरानपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते कर्मनिष्ठाया ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वम् , स्वातन्त्र्येण ; ज्ञाननिष्ठा तु कर्मनिष्ठोपायलब्धात्मिका सती स्वातन्त्र्येण पुरुषार्थहेतुः अन्यानपेक्षा, इत्येतमर्थं प्रदर्शयिष्यन् आह भगवान्

तर्हि विभागवचनानुरोधादर्जुनस्यापि संन्यासपूर्विकायां ज्ञाननिष्ठायामेवाधिकारो भविष्यति, नेत्याह -

मां चेति ।

बुद्धेर्ज्यायस्त्वमुपेत्यापीति चकारार्थः । अर्जुनमालक्ष्य भगवानाहेति सम्बन्धः ।

अन्तरेणापि कर्माणि, श्रवणादिभिर्ज्ञानावाप्तिर्भविष्यतीति परबुद्धिमनुरुध्य विशिनष्टि -

कर्मेति ।

विभागवचनवशादसमुच्चयश्चेद् उभयोरपि ज्ञानकर्मणोः स्वातन्त्र्येण पुरुषार्थहेतुत्वम् , अन्यथा कर्मवद् ज्ञानमपि न स्वातन्त्र्येण पुरुषार्थं साधयेद् इत्याशङ्क्य सम्बन्धान्तरमाह -

अथवेति ।

तर्हि ज्ञाननिष्ठाऽपि कर्मनिष्ठावन्निष्ठात्वाविशेषान्न स्वातन्त्र्येण पुरुषार्थहेतुरिति । समुच्चयसिद्धिरित्याशङ्क्याह -

ज्ञाननिष्ठा त्विति ।

नहि रज्जुतत्त्वज्ञानमुत्पन्नं फलसिद्धौ सहकारिसापेक्षमालक्ष्यते । तथेदमपि च उत्पन्नं मोक्षाय नान्यदपेक्षते । तदाह -

अन्येति ।