यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥
यस्तु पुनः कर्मण्यधिकृतः अज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः । किमारभते इत्याह — कर्मयोगम् असक्तः सन् फलाभिसन्धिवर्जितः सः विशिष्यते इतरस्मात् मिथ्याचारात् ॥ ७ ॥