श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥
यज्ञो वै विष्णुः’ (तै. स. १ । ७ । ४) इति श्रुतेः यज्ञः ईश्वरः, तदर्थं यत् क्रियते तत् यज्ञार्थं कर्मतस्मात् कर्मणः अन्यत्र अन्येन कर्मणा लोकः अयम् अधिकृतः कर्मकृत् कर्मबन्धनः कर्म बन्धनं यस्य सोऽयं कर्मबन्धनः लोकः, तु यज्ञार्थात्अतः तदर्थं यज्ञार्थं कर्म कौन्तेय, मुक्तसङ्गः कर्मफलसङ्गवर्जितः सन् समाचर निर्वर्तय ॥ ९ ॥

फलाभिसन्धिमन्तरेण यज्ञार्थं कर्म कुर्वाणस्य बन्धाभावात् तादर्थ्येन कर्म कर्तव्यमित्याह -

तदर्थमिति ।

यज्ञार्थं कर्मेत्ययुक्तं, नहि कर्मार्थमेव कर्मेत्याशङ्क्य, व्याचष्टे -

यज्ञो वै विष्णुरिति ।

कथं तर्हि ‘कर्मणा बध्यते जन्तुः’ (म. भा. १२-२४१-७) इति स्मृतिः ? तत्राह -

तस्मादिति ।

ईश्वरार्पणबुद्ध्या कृतस्य कर्मणो बन्धार्थत्वाभावे फलितमाह -

अत इति

॥ ९ ॥