मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
तृतीयोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
देवान्भावयतानेन
ते
देवा
भावयन्तु
वः
।
परस्परं
भावयन्तः
श्रेयः
परमवाप्स्यथ
॥ ११ ॥
देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेन । ते देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना वः युष्मान् । एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं ज्ञानप्राप्तिक्रमेण अवाप्स्यथ । स्वर्गं वा परं श्रेयः अवाप्स्यथ ॥ ११ ॥
देवानिति
;
तत्र श्लोकेनोत्तरमाह -
देवानिति ।
मुमुक्षुत्वबुभुक्षुत्वविभागेन श्रेयसि विकल्पः ॥ ११ ॥