मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
तृतीयोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
देवान्भावयतानेन
ते
देवा
भावयन्तु
वः
।
परस्परं
भावयन्तः
श्रेयः
परमवाप्स्यथ
॥ ११ ॥
देवान्
इन्द्रादीन्
भावयत
वर्धयत
अनेन
यज्ञेन
।
ते
देवा
भावयन्तु
आप्याययन्तु
वृष्ट्यादिना
वः
युष्मान्
।
एवं
परस्परम्
अन्योन्यं
भावयन्तः
श्रेयः
परं
मोक्षलक्षणं
ज्ञानप्राप्तिक्रमेण
अवाप्स्यथ
।
स्वर्गं
वा
परं
श्रेयः
अवाप्स्यथ
॥ ११ ॥
देवानिति
;
तत्र श्लोकेनोत्तरमाह -
देवानिति ।
मुमुक्षुत्वबुभुक्षुत्वविभागेन श्रेयसि विकल्पः ॥ ११ ॥