श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
देवान्भावयतानेन ते देवा भावयन्तु वः
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥
देवान् इन्द्रादीन् भावयत वर्धयत अनेन यज्ञेनते देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना वः युष्मान्एवं परस्परम् अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं ज्ञानप्राप्तिक्रमेण अवाप्स्यथस्वर्गं वा परं श्रेयः अवाप्स्यथ ॥ ११ ॥

तत्र श्लोकेनोत्तरमाह -

देवानिति ।

मुमुक्षुत्वबुभुक्षुत्वविभागेन श्रेयसि विकल्पः ॥ ११ ॥