श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥
इष्टान् अभिप्रेतान् भोगान् हि वः युष्मभ्यं देवाः दास्यन्ते वितरिष्यन्ति स्त्रीपशुपुत्रादीन् यज्ञभाविताः यज्ञैः वर्धिताः तोषिताः इत्यर्थःतैः देवैः दत्तान् भोगान् अप्रदाय अदत्त्वा, आनृण्यमकृत्वा इत्यर्थः, एभ्यः देवेभ्यः, यः भुङ्क्ते स्वदेहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव सः देवादिस्वापहारी ॥ १२ ॥

कथमस्माभिर्भाविताः सन्तो देवा भावयिष्यन्ति अस्मानिति, तदाह -

इष्टानिति ।

यज्ञानुष्ठानेन पूर्वोक्तरीत्या स्वर्गापवर्गयोर्भावेऽपि, कथं स्त्रीपशुपुत्रादिसिद्धिरित्याशङ्क्य, पूर्वार्धं व्याकरोति -

इष्टान् अभिप्रेतानिति ।

पश्वादिभिश्च यज्ञानुष्ठानद्वारा भोगो निर्वर्तनीयः, अन्यथा प्रत्यवायप्रसङ्गादित्युत्तरार्धं व्याचष्टे -

तैरिति ।

आनृण्यमकृत्वा इत्यस्य अयमर्थः - देवानामृषीणां पितृणां च यज्ञेन ब्रह्मचर्येण प्रजया च सन्तोषमनापाद्य, स्वकीयं कार्यकरणसङ्घातमेव पोष्टुं भुञ्जानस्तस्करो भवतीति ॥ १२ ॥