उक्तेऽर्थे स्मृत्यन्तरं संवादयति -
अग्नाविति ।
तत्र हि देवताभिध्यानपूर्वकं तदुद्देशेन प्रहिताहुतिरपूर्वतां गता रश्मिद्वारेणादित्यमारुह्य, वृष्ट्यात्मना पृथिवीं प्राप्य, व्रिहियवाद्यन्नभावमापद्य, संस्कृतोपभुक्ता शुक्रशोणितरूपेण परिणता प्रजाभावं प्राप्नोतीत्यर्थः ।
‘यज्ञः कर्मसमुद्भवः’ (भ. गी. ३-१४) इत्ययुक्तं, स्वस्यैव स्वोद्भवे कारणत्वायोगादित्याशङ्क्याह -
ऋत्विगिति ।
द्रव्यदेवतयोः सङ्ग्राहकश्चकारः ॥ १४ ॥