श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
कर्म ब्रह्मोद्भवं ब्रह्म वेदः सः उद्भवः कारणं प्रकाशको यस्य तत् कर्म ब्रह्मोद्भवं विद्धि विजानीहि । ब्रह्म पुनः वेदाख्यम् अक्षरसमुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तत् अक्षरसमुद्भवम् । ब्रह्म वेद इत्यर्थः । यस्मात् साक्षात् परमात्माख्यात् अक्षरात् पुरुषनिःश्वासवत् समुद्भूतं ब्रह्म तस्मात् सर्वार्थप्रकाशकत्वात् सर्वगतम् ; सर्वगतमपि सत् नित्यं सदा यज्ञविधिप्रधानत्वात् यज्ञे प्रतिष्ठितम् ॥ १५ ॥

किमिति कर्मणो ब्रह्मोद्भवत्वमुच्यते ? सर्वस्य तदुद्भवत्वाविशेषादित्याशङ्क्याह -

ब्रह्म वेद इति ।

ब्रह्म तर्हि वेदाख्यमनादिनिधनमिति, तत्राह -

ब्रह्म पुनरिति ।

अक्षरात्मनो वेदस्य पुनरक्षरेभ्यः सकाशादेव समुद्भवो न सम्भवतीत्याशङ्क्याह -

अक्षरमिति ।

ब्रह्मेत्यक्षरमेवोक्तं, तत् कथं तस्मादेवोद्भवतीत्याशङ्क्य, ब्रह्मशब्दार्थमुक्तमेव स्मारयति -

ब्रह्म वेद इति ।

ननु ब्रह्मशब्दितस्य वेदस्यापि पौरुषेयत्वात् प्रामाण्यसन्देहात् कथं तदुक्तमग्निहोत्रादिकं कर्म निर्धारयितुं शक्यते ? तत्राह -

यस्मादिति ।

कथं तर्हि तस्य यज्ञे प्रतिष्ठितत्वं ? सर्वगतत्वे विशेषायोगादित्याशङ्क्याह -

सर्वगतमपीति

॥ १५ ॥