‘न कर्मणामनारम्भात्’ (भ. गी. ३-४) इत्यादिनोक्तमुपसंहरति -
तस्मादिति ।
जगच्चक्रस्य प्रागुक्तप्रकारेणानुवर्तने वृथा जीवनमघसाधनं यस्मात् तस्माज्जीवता नियतं कर्म कर्तव्यमित्यर्थः ।
यद्यधिकृतेन कर्तव्यमेव कर्म, तर्हि किमिति अज्ञेनेति विशिष्यते ? ज्ञाननिष्टेनापि तत् कर्तव्यमेवाधिकृतत्वाविशेषादित्याश्ङ्क्य, पूर्वोक्तमनुवदति -
प्रागिति ।
नहि ज्ञानकर्मणोर्विरोधाज्ज्ञाननिष्ठेन कर्म कर्तुं शक्यते । तथा चानात्मज्ञेनैव चित्तशुद्ध्यादिपरम्परया ज्ञानार्थं कर्मानु्ष्ठेयमिति प्रतिपादितमित्यर्थः ।
तर्हि ‘यज्ञार्थात्’ (भ. गी. ३-९) इत्यादि किमर्थं, नहि तत्र ज्ञाननिष्ठा प्रतिपाद्यते, कर्मनिष्ठा तु पूर्वमेवोक्तत्वान्नात्र वक्तव्येत्याशङ्क्य, वृत्तमर्थान्तरमनुवदति -
प्रतिपाद्येति ।
प्रासङ्गिकम् - अज्ञस्य कर्मकर्तव्यतोक्तिप्रसङ्गादागतमिति यावत् । बहुकारणम् - ईश्वरप्रसादो देवताप्रीतिश्चेत्यादि । दोषसङ्कीर्तनं - ‘तैर्दत्तान् अप्रदाय’ (भ. गी. ३-१२) इत्यादि ॥ १६ ॥