श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः
आत्मन्येव सन्तुष्टस्तस्य कार्यं विद्यते ॥ १७ ॥
यस्तु साङ्ख्यः आत्मज्ञाननिष्ठः आत्मरतिः आत्मन्येव रतिः विषयेषु यस्य सः आत्मरतिरेव स्यात् भवेत् आत्मतृप्तश्च आत्मनैव तृप्तः अन्नरसादिना सः मानवः मनुष्यः संन्यासी आत्मन्येव सन्तुष्टःसन्तोषो हि बाह्यार्थलाभे सर्वस्य भवति, तमनपेक्ष्य आत्मन्येव सन्तुष्टः सर्वतो वीततृष्ण इत्येतत्यः ईदृशः आत्मवित् तस्य कार्यं करणीयं विद्यते नास्ति इत्यर्थः ॥ १७ ॥

आत्मनिष्ठस्य विषयसङ्गराहित्यं दृष्टं, तदनात्मज्ञेन जिज्ञासुना कर्तव्यमिति मत्वाऽऽह -

यस्तु साङ्ख्य इति ।

किञ्च, आत्मज्ञस्य ज्ञानेनात्मनैव परितृप्तत्वात् नान्नपानादिना साध्या तृ्प्तिरिष्टा । तेन विद्यार्थिना संन्यासिनाऽपि नान्नरसादौ आसक्तिर्युक्ता कर्तुमित्याह -

आत्मतृप्त इति ।

किञ्चात्मविदः सर्वतो वैतृष्ण्यं दृष्टं, तदनात्मविदा विद्यार्थिना कर्तव्यमित्याह -

आत्मन्येवेति ।

रतितृप्तिसन्तोषाणां मोदप्रमोदानन्दवत् अवान्तरभेदः । अथवा रतिर्विषयासक्तिः, तृप्तिर्विषयविशेषसम्पर्कजं सुखं, सन्तोषोऽभीष्टविषयमात्रलाभाधीनं सुखसामान्यमिति भेदः ।

ननु आत्मरतेरात्मतृप्तस्यात्मन्येव सन्तुष्टस्यापि किञ्चित् कर्तव्यं मुक्तये भविष्यतीति, नेत्याह -

य ईदृश इति

॥ १७ ॥