मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
तृतीयोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
तस्मादसक्तः
सततं
कार्यं
कर्म
समाचर
।
असक्तो
ह्याचरन्कर्म
परमाप्नोति
पूरुषः
॥ १९ ॥
तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय । असक्तो हि यस्मात् समाचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः सत्त्वशुद्धिद्वारेण इत्यर्थः ॥ १९ ॥
असक्तो हीति
;
मोक्षमेवापेक्षमाणस्य कथं कर्मणि फलन्तरवति नियोगः स्यादित्यशङ्क्याह -
असक्तो हीति
॥ १९ ॥