मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
तृतीयोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
कर्मणैव
हि
संसिद्धिमास्थिता
जनकादयः
।
लोकसङ्ग्रहमेवापि
सम्पश्यन्कर्तुमर्हसि
॥ २० ॥
कर्मणैव
हि
यस्मात्
पूर्वे
क्षत्रियाः
विद्वांसः
संसिद्धिं
मोक्षं
गन्तुम्
आस्थिताः
प्रवृत्ताः
।
के
?
जनकादयः
जनकाश्वपतिप्रभृतयः
।
यदि
ते
प्राप्तसम्यग्दर्शनाः
,
ततः
लोक
सङ्ग्रहार्थं
प्रारब्धकर्मत्वात्
कर्मणा
सहैव
असंन्यस्यैव
कर्म
संसिद्धिमास्थिता
इत्यर्थः
।
अथ
अप्राप्तसम्यग्दर्शनाः
जनकादयः
,
तदा
कर्मणा
सत्त्वशुद्धिसाधनभूतेन
क्रमेण
संसिद्धिमास्थिता
इति
व्याख्येयः
श्लोकः
।
अथ
मन्यसे
पूर्वैरपि
जनकादिभिः
अजानद्भिरेव
कर्तव्यं
कर्म
कृतम्
;
तावता
नावश्यमन्येन
कर्तव्यं
सम्यग्दर्शनवता
कृतार्थेनेति
;
तथापि
प्रारब्धकर्मायत्तः
त्वं
लोकसङ्ग्रहम्
एव
अपि
लोकस्य
उन्मार्गप्रवृत्तिनिवारणं
लोकसङ्ग्रहः
तमेवापि
प्रयोजनं
सम्पश्यन्
कर्तुम्
अर्हसि
॥ २० ॥
लोकेति
;
इतोऽपि त्वया विहितं कर्म कर्तव्यमित्याह -
लोकेति
॥ २० ॥