कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ २० ॥
कर्मणैव हि यस्मात् पूर्वे क्षत्रियाः विद्वांसः संसिद्धिं मोक्षं गन्तुम् आस्थिताः प्रवृत्ताः । के ? जनकादयः जनकाश्वपतिप्रभृतयः । यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोकसङ्ग्रहार्थं प्रारब्धकर्मत्वात् कर्मणा सहैव असंन्यस्यैव कर्म संसिद्धिमास्थिता इत्यर्थः । अथ अप्राप्तसम्यग्दर्शनाः जनकादयः, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्रमेण संसिद्धिमास्थिता इति व्याख्येयः श्लोकः । अथ मन्यसे पूर्वैरपि जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतम् ; तावता नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति ; तथापि प्रारब्धकर्मायत्तः त्वं लोकसङ्ग्रहम् एव अपि लोकस्य उन्मार्गप्रवृत्तिनिवारणं लोकसङ्ग्रहः तमेवापि प्रयोजनं सम्पश्यन् कर्तुम् अर्हसि ॥ २० ॥