मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
तृतीयोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
यद्यदाचरति
श्रेष्ठस्तत्तदेवेतरो
जनः
।
स
यत्प्रमाणं
कुरुते
लोकस्तदनुवर्तते
॥ २१ ॥
यद्यत्
कर्म
आचरति
करोति
श्रेष्ठः
प्रधानः
तत्तदेव
कर्म
आचरति
इतरः
अन्यः
जनः
तदनुगतः
।
किञ्च
सः
श्रेष्ठः
यत्
प्रमाणं
कुरुते
लौकिकं
वैदिकं
वा
लोकः
तत्
अनुवर्तते
तदेव
प्रमाणीकरोति
इत्यर्थः
॥ २१ ॥
किञ्चेति
;
श्रेष्ठानुसारित्वमितरेषामाचारे दर्शयित्वा, प्रतिपत्तावपि दर्शयति -
किञ्चेति
॥ २१ ॥