श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन
नानवाप्तमवाप्तव्यं वर्त एव कर्मणि ॥ २२ ॥
मे मम पार्थ अस्ति विद्यते कर्तव्यं त्रिषु अपि लोकेषु किञ्चन किञ्चिदपिकस्मात् ? अनवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयम् , तथापि वर्ते एव कर्मणि अहम् ॥ २२ ॥

अप्राप्तस्य प्राप्तये तवापि कर्तृत्वसम्भवाद् न किञ्चिदपि विद्यते कर्तव्यमिति कथमुक्तमित्याशङ्क्याह -

नानवाप्तमिति ।

प्रतीकमुपादाय व्याख्यानद्वारा विद्यावतोऽपि कर्मप्रवृत्तिं सम्भावयति -

नेत्यादिना ।

अन्वयार्थं पुनर्नञोऽनुवादः ।

भगवतो नास्ति कर्तव्यमित्येतदाकाङ्क्षाद्वारा स्फोरयति -

कस्मादित्यादिना ।

प्रयोजनाभावे त्वयाऽपि नानुष्ठेयं कर्मेत्याशङ्क्य लोकसङ्ग्रहार्थं ममापि कर्मानुष्ठानमिति मत्वाऽऽह -

तथापीति ।

॥ २२ ॥