श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥
एवं लोकसङ्ग्रहं चिकीर्षोः न मम आत्मविदः कर्तव्यमस्ति अन्यस्य वा लोकसङ्ग्रहं मुक्त्वा । ततः तस्य आत्मविदः इदमुपदिश्यते —

वृत्तमनूद्योत्तरश्लोकमवतारयति -

एवमिति ।

कर्तव्यं,कर्मेति शेषः ।