कर्तृत्वमात्मनः अवास्तवम् इत्यभ्युपगमाद् विद्वान् कथं कुर्वन्नेव तस्याभावं पश्यतीत्याशङ्क्याह -
प्रकृतेरिति ।
कर्मसु अविदुषः सक्तिप्रकारं प्रकटयन् व्याकरोति -
प्रकृतेरित्यादिना ।
प्रधान शब्देन मायाशक्तिरुच्यते । अविद्ययेत्युभयतः सम्बध्यते ॥ २७ ॥