श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ २९ ॥
ये पुनः —

विद्वान् अविद्वानित्युभावपि प्रकृत्य, विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युपसंहरति -

ये पुनरिति ।

प्रकृतेरुक्तगुणैर्देहादिभिर्विकारैः संमूढाः - तानेव आत्मत्वेन मन्यमाना ये ते ।