वीप्सायाः सर्वकरणागोचरत्वं दर्शयति -
सर्वेति ।
प्रत्यर्थं रागद्वेषयोरव्यवस्थायाः प्राप्तौ प्रत्यादिशति -
इष्ट इति ।
प्रतिविषयं विभागेन तयोरन्यतरस्यावश्यकत्वेऽपि पुरुषकारविषयाभावप्रयुक्त्या प्रागुक्तं दूषणं कथं समाधेयमित्याशङ्क्याह -
तत्रेति ।
तयोरित्याद्यवतारितं भागं विभजते -
शास्त्रार्थ इति ।
प्रकृतिवशत्वात् जन्तोर्नैव नियोज्यत्वमित्याशङ्क्याह -
या हीति ।
रागद्वेषद्वारा प्रकृतिवशवर्तित्वे स्वधर्मत्यागादि दुर्वारमित्युक्तम् , इदानीं विवेकविज्ञानेन रागादिनिवारणे शास्त्रीयदृष्ट्या प्रकृतिपारवश्यं परिहर्तुं शक्यमित्याह -
यदेति ।
मिथ्याज्ञाननिबन्धनौ हि रागद्वेषौ । तत्प्रतिपक्षत्वं विवेकविज्ञानस्य मिथ्याज्ञानविरोधित्वादवधेयम् ।
रागद्वेषयोर्मूलनिवृत्त्या निवृत्तौ प्रतिबन्धध्वंसे कार्यसिद्धिमभिसन्धायोक्तं -
तदेति ।
एवकारस्यान्ययोगव्यवच्छेदकत्वं दर्शयति -
नेति ।
पूर्वोक्तं नियोगमुपसंहरति -
तस्मादिति ।
तत्र हेतुमाह -
यत इति ।
हिशब्दोपात्ताो हेतुर्यत इति प्रकटितः । स च पूर्वेण तच्छब्देन सम्बन्धनीयः ।
पुरुषपरिपन्थित्वमेव तयोः सोदाहरणं स्फोरयति -
श्रेयोमार्गस्येति
॥ ३४ ॥