श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥
यदि सर्वो जन्तुः आत्मनः प्रकृतिसदृशमेव चेष्टते, न च प्रकृतिशून्यः कश्चित् अस्ति, ततः पुरुषकारस्य विषयानुपपत्तेः शास्त्रानर्थक्यप्राप्तौ इदमुच्यते —

सर्वस्य भूतवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावात् विधिनिषेधानर्थक्यमितिशङ्कते -

यदीति ।

ननु यस्य न प्रकृतिरस्ति, तस्य पुरुषकारसम्भवादर्थवत्त्वं तद्विषये विधिनिषेधयोर्भविष्यति, नेत्याह -

नचेति ।

शङ्कितदोषं श्लोकेन परिहरति -

इदमित्यादिना ।