श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदि सर्वो जन्तुः आत्मनः प्रकृतिसदृशमेव चेष्टते, प्रकृतिशून्यः कश्चित् अस्ति, ततः पुरुषकारस्य विषयानुपपत्तेः शास्त्रानर्थक्यप्राप्तौ इदमुच्यते
यदि सर्वो जन्तुः आत्मनः प्रकृतिसदृशमेव चेष्टते, प्रकृतिशून्यः कश्चित् अस्ति, ततः पुरुषकारस्य विषयानुपपत्तेः शास्त्रानर्थक्यप्राप्तौ इदमुच्यते

सर्वस्य भूतवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावात् विधिनिषेधानर्थक्यमितिशङ्कते -

यदीति ।

ननु यस्य न प्रकृतिरस्ति, तस्य पुरुषकारसम्भवादर्थवत्त्वं तद्विषये विधिनिषेधयोर्भविष्यति, नेत्याह -

नचेति ।

शङ्कितदोषं श्लोकेन परिहरति -

इदमित्यादिना ।