श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र रागद्वेषप्रयुक्तो मन्यते शास्त्रार्थमप्यन्यथापरधर्मोऽपि धर्मत्वात् अनुष्ठेय एवइति, तदसत्
तत्र रागद्वेषप्रयुक्तो मन्यते शास्त्रार्थमप्यन्यथापरधर्मोऽपि धर्मत्वात् अनुष्ठेय एवइति, तदसत्

रागद्वेषयोः श्रेयोमार्गप्रतिपक्षत्वं प्रकटयितुं परमतोपन्यासद्वारा समनन्तरश्लोकमवतारयति -

तत्रेत्यादिना ।

व्यवहारभूमिः सप्तम्यर्थः ।

शास्त्रार्थस्यान्यथाप्रतिपत्तिमेव प्रत्याययति -

परधर्मोऽपीति ।

स्वधर्मवदित्यप्यर्थः ।

अनुमानं दूषयन्नुत्तरत्वेन श्लोकमुत्थापयति -

तदसदिति ।