किमपेक्षया तेषां परत्वं ? तत्राह -
देहमिति ।
तथाऽपि केन प्रकारेण परत्वं ? तदाह -
सौक्ष्म्येति ।
आदिशब्देन कारणत्वादि गृह्यते ।
इन्द्रियापेक्षया सूक्ष्मत्वादिना मनसः स्वरूपोक्तिपूर्वकं परत्वं कथयति -
तथेति ।
मनसि दर्शितं न्यायं बुद्धावतिदिशति -
तथा मनसस्त्विति ।
‘यो बुद्धेः’ (भ. गी. ३-४२) इत्यादि व्याचष्टे -
तथेत्यादिना ।
आत्मनो यथोक्तविशेषणस्याप्रकृतत्वमाशङ्क्याह -
यं देहिनमिति
॥ ४२ ॥