श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
एवं बुद्धेः परम् आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनं कृत्वा आत्मानं स्वेनैव आत्मना संस्कृतेन मनसा सम्यक् समाधायेत्यर्थःजहि एनं शत्रुं हे महाबाहो कामरूपं दुरासदं दुःखेन आसदः आसादनं प्राप्तिः यस्य तं दुरासदं दुर्विज्ञेयानेकविशेषमिति ॥ ४३ ॥

इन्द्रियादिसमाधानपूर्वकमात्मज्ञानात् कामजयो भवतीत्युपसंहरति -

एवमित्यादिना ।

संस्कृतं मनो मनः समाधाने हेतुरिति सूचयति -

संस्तभ्येति ।

प्रकृतं शत्रुमेव विशिनष्टि -

कामरूपमिति ।

तस्य दुरासदत्वे हेतुमाह -

दूर्विज्ञेयेति ।

अनेकविशेषोऽतादृशो महाशनत्वादिः, तदनेनोपायभूता कर्मनिष्ठा प्राधान्येनोक्ता, उपेया तु ज्ञाननिष्ठा गुणत्वेनेति विवेक्तव्यम् ॥ ४३ ॥

तत्सत् इति श्रीमत्परमहंसपरिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानकृते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने तृतीयोऽध्यायः ॥ ३ ॥