यथोक्ते योगे परम्परागते विशिष्टजनसम्मतिमुदाहरति -
एवमिति ।
तस्य कथं सम्प्रति वक्तव्यत्वं, तदाह -
स कालेनेति ।
पूर्वार्धं व्याकरोति -
एवमित्यादिना ।
ऐश्वर्यसम्पत्ती राजत्वं येषां, तेषामेव सृक्ष्मार्थनिरीक्षणक्षमत्वमृषित्वम् । इहेति भगवतोऽर्जुनेन सह संव्यवहारकालो गृह्यते ।
परन्तपेति सम्बोधनं विभजते -
आत्मन इति
॥ २ ॥